|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.51. अध्यायः 051
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण कृष्णंप्रति स्वस्य शस्त्रसंछिन्नशरीरतया धर्मकथनापाटवप्रकटनम्॥ 1॥
कृष्णेन भीष्माय शरीरदार्ढ्यादिप्रदानम्॥ 2॥ ततः सायं सर्वेषां स्वस्वस्थानगमनम्॥ 3॥

Mahabharata - Shanti Parva - Chapter Text
वैशम्पायन उवाच। 12-51-0x(5456)(66775)
ततः कृष्णस्य तद्वाक्यं धर्मार्थसहितं हितम्।
श्रुत्वा शान्तनवः कृष्णं प्रत्युवाच कृताञ्जलिः॥ 12-51-1(66776)
लोकनाथ महाबाहो शिव नारायणाच्युत।
तव वाक्यमुपश्रुत्य हर्षेणास्मि परिप्लुतः॥ 12-51-2(66777)
किंचाहमभिधास्यामि वाक्पते तव सन्निधौ।
यदा वाचोगतं सर्वं तव वाचि समाहितम्॥ 12-51-3(66778)
यच्च किंचित्कृतं लोके कर्तव्यं क्रियते च यत्।
त्वत्तस्तन्निः सृतं देव लोके बुद्धिमतो हिते॥ 12-51-4(66779)
कथयेद्देवलोकं यो देवराजसमीपतः।
धर्मकामार्थमोक्षाणां सोऽर्थं ब्रूयात्तवाग्रतः॥ 12-51-5(66780)
शराभितापाद्व्यथितं मनो मे मधुसूदन।
गात्राणि चावसीदन्ति न च बुद्धिः प्रसीदति॥ 12-51-6(66781)
न च मे प्रतिभा काचिदस्ति किंचित्प्रभाषितुम्।
पीड्यमानस्य गोविन्द विपानलसमैः शरैः॥ 12-51-7(66782)
बलं मे प्रजहातीव प्राणाः सत्वरयन्ति च।
मर्माणि परितप्यन्ति भ्रान्तचित्तस्तथा ह्यहम्॥ 12-51-8(66783)
दौर्बल्यात्सज्जते वाङ्भे स कथं वक्तुमुत्सहे।
साधु मे त्वं प्रसीदस्व दाशार्हकुलवर्धन॥ 12-51-9(66784)
तत्क्षमस्व महाबाहो न ब्रूयां किंचिदच्युत॥
त्वत्सन्निधौ च सीदेद्धि वाचस्पतिरपि ब्रुवन्॥ 12-51-10(66785)
न दिशः संप्रजानामि नाकाशं न च मेदिनीम्।
केवलं तव वीर्येण तिष्ठामि मधुसूदन॥ 12-51-11(66786)
स्वयमेव भवांस्तस्माद्धर्मराजस्य यद्धितम्।
तद्ब्रवीत्वाशु सर्वेषामागमानां त्वमागमः॥ 12-51-12(66787)
कथं त्वयि स्थिते कृष्णे शाश्वते लोककर्तरि।
प्रब्रूयान्मद्विधः कश्चिद्गुरौ शिष्य इव स्थिते॥ 12-51-13(66788)
वासुदेव उवाच। 12-51-14x(5457)
उपपन्नमिदं वाक्यं कौरवाणां धुरन्धरे।
महावीर्ये महासत्वे स्थिरे सर्वार्थदर्शिनि॥ 12-51-14(66789)
यच्च मामात्थ गाङ्गेय बाणघातरुजं प्रति।
गृहाणात्र वरं भीष्म मत्प्रसादकृतं प्रभो॥ 12-51-15(66790)
न ते ग्लानिर्न ते मूर्च्छा न तापो न च ते रुजा।
प्रभविष्यन्ति गाङ्गेय क्षुत्पिपासे न चाप्युत॥ 12-51-16(66791)
ज्ञानानि च समग्राणि प्रतिभास्यन्ति तेऽनघ।
न च ते क्वचिदासत्तिर्बुद्धेः प्रादुर्भविष्यति॥ 12-51-17(66792)
सत्वस्थं च मनो नित्यं तव भीष्म भविष्यति।
रजस्तमोभ्यां निर्मुक्तं घनैर्मुक्त इवोडुराट्॥ 12-51-18(66793)
यद्यच्च धर्मसंयुक्तमर्थयुक्तमथापि च।
चिन्तयिष्यसि तत्राग्र्या बुद्धिस्तव भविष्यति॥ 12-51-19(66794)
इमं च राजशार्दूल भूतग्रामं चतुर्विधम्।
चक्षुर्दिव्यं समाश्रित्य द्रक्ष्यस्यमितविक्रम॥ 12-51-20(66795)
चतुर्विधं प्रजाजालं संयुक्तो ज्ञानचक्षुषा।
भीष्म द्रक्ष्यसि तत्त्वेन जले मीन इवामले॥ 12-51-21(66796)
वैशम्पायन उवाच। 12-51-22x(5458)
ततस्ते व्याससहिताः सर्व एव महर्षयः।
ऋग्यजुःसामसहितैर्वचोभिः कृष्णमार्चयन्॥ 12-51-22(66797)
ततः सर्वार्तवं दिव्यं पुष्पवर्षं न भस्तलात्।
पपात यत्र वार्ष्णेयः सगाङ्गेयः सपाण्डवः॥ 12-51-23(66798)
वादित्राणि च सर्वाणि जगुश्चाप्सरसां गणाः।
न चाहितमनिष्टं च किंचित्तत्र व्यदृश्यत॥ 12-51-24(66799)
ववौ शिवः सुखो वायुः सर्वगन्धवहः शुचिः।
शान्तायां दिशिशन्ताश्च प्रावदन्मृगपक्षिणः॥ 12-51-25(66800)
ततो मुहूर्ताद्भगवान्सहस्रांशुर्दिवाकरः।
दहन्वनमिवैकान्ते प्रतीच्यां प्रत्यदृश्यत॥ 12-51-26(66801)
ततो महर्षयः सर्वे समुत्थाय जनार्दनम्।
भीष्ममामन्त्रयांचक्रू राजानं च युधिष्ठिरम्॥ 12-51-27(66802)
ततः प्रणाममकरोत्केशवः सहपाण्डवः।
सात्यकिः स़ञ्जयश्चैव स च शारद्वतः कृपः॥ 12-51-28(66803)
ततस्ते धर्मनिरताः सम्यक् तैरभिपूजिताः।
श्वः समेष्याम इत्युक्त्वा यथेष्टं त्वरिता ययुः॥ 12-51-29(66804)
तथैवामन्त्र्य गाङ्गेयं केशवः पाण्डवास्तथा।
प्रदक्षिणमुपावृत्य रथानारुरुहुः शुभान्॥ 12-51-30(66805)
ततो रथैः काञ्चनचित्रकूबरै
र्महीधराभैः समदैश्च दन्तिभिः।
हयैः सुपर्णैरिव चाशुगामिभिः
पदातिभिश्चात्तशरासनादिभिः॥ 12-51-31(66806)
ययौ रथानां पुरतो हि सा चमू
स्तथैव पश्चादतिमात्रसारिणी।
पुरश्च पश्चाच्च यथा महानदी
तमृक्षवन्तं गिरिमेत्य नर्मदा॥ 12-51-32(66807)
ततः पुरस्ताद्भगवान्निशाकरः।
समुत्थितस्तामभिहर्षयंश्चमूम्।
दिवाकरापीतरसा महौषधीः
पुनः स्वकेनैव गुणेन योजयन्॥ 12-51-33(66808)
ततः पुरं सुरपुरसंमितद्युति
प्रविश्य ते यदुवृषपाण्डवास्तदा।
यथोचितान्भवनवरान्समाविशन्
श्रमान्विता मृगपतयो गुहा इव॥ ॥ 12-51-34(66809)
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि एकपञ्चाशोऽध्यायः॥ 51॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-51-3 वाचोगतं वाचां विषयः सर्वोऽपि तव वाचि वेदे॥ 12-51-4 हिते प्रिये। लोके देवलोके इह परत्र च। तत्सर्वं त्रैकालिकम्। त्वत्तो निःसृतमिति उक्तेर्थे हेतुरुक्तः॥ 12-51-12 आगमानां समागममिति ट. ड. पाठः॥ 12-51-17 आसत्तिरवसन्नता॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|